Sukta 1.28
आयजी वाजसातमा ता ह्युच्चा विजर्भृतः । हरी इवान्धांसि बप्सता ॥
आ॒य॒जी वा॑ज॒सात॑मा॒ ता ह्यु१॒॑च्चा वि॑जर्भृ॒तः । हरी॑ इ॒वान्धां॑सि॒ बप्स॑ता ॥
āyajī́ vā́ja-sātamā tā́ hy uccā́ vi-jarbhṛtáḥ | hárī ivā́ndhāṃsi bápsatā ||
O two who are fit for worship, most winning of plenitude, you indeed are lifted high and set in motion; like Indra’s two bay steeds, you chew up the darknesses—breaking the obscurity in us.
आ॒य॒जी इत्या॑ऽय॒जी । वा॒ज॒ऽसात॑मा । ता । हि । उ॒च्चा । वि॒ऽज॒र्भृ॒तः । हरी॑ इ॒वेति॒ हरी॑ऽइव । अन्धां॑सि । बप्स॑ता ॥आयजी इत्यायजी । वाजसातमा । ता । हि । उच्चा । विजर्भृतः । हरी इवेति हरीइव । अन्धांसि । बप्सता ॥āyajī ity āyajī | vāja-sātamā | tā | hi | uccā | vi-jarbhṛtaḥ | harīivetiharī-iva | andhāṃsi | bapsatā