Sukta 1.28
यत्र नार्यपच्यवमुपच्यवं च शिक्षते । उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥
यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते । उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
yátra nā́ry apacyavám upacyaváṃ ca śíkṣate | ulū́khala-sutānām áved índra jalguláḥ ||
Where the woman learns the downward and upward movements (of the pounding), there the pounding-clang of the mortar-workers is known to Indra—educing skill into power.
यत्र॑ । नारी॑ । अ॒प॒ऽच्य॒वम् । उ॒प॒ऽच्य॒वम् । च॒ । शिक्ष॑ते । उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊँ॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥यत्र । नारी । अपच्यवम् । उपच्यवम् । च । शिक्षते । उलूखलसुतानाम् । अव । इत् । ऊँ इति । इन्द्र । जल्गुलः ॥yatra | nārī | apa-cyavam | upa-cyavam | ca | śikṣate | ulūkhala-sutānām | ava | it | oṃ iti | indra | jalgulaḥ