Sukta 1.27
यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः । स यन्ता शश्वतीरिषः ॥
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः । स यन्ता॒ शश्व॑ती॒रिष॑: ॥
yám agne pṛtsú martyám avā́ vā́jeṣu yáṃ junā́ḥ | sá yantā́ śáśvatīr íṣaḥ ||
The mortal whom, O Agni, thou aidest in the clashes, whom thou drivest forward in the plenitudes of force—he becomes the controller of unending impulsions.
यम् । अ॒ग्ने॒ । पृ॒त्ऽसु । मर्त्य॑म् । अवाः॑ । वाजे॑षु । यम् । जु॒नाः । सः । यन्ता॑ । शश्व॑तीः । इषः॑ ॥यम् । अग्ने । पृत्सु । मर्त्यम् । अवाः । वाजेषु । यम् । जुनाः । सः । यन्ता । शश्वतीः । इषः ॥yam | agne | pṛt-su | martyam | avāḥ | vājeṣu | yam | junāḥ | saḥ | yantā | śaśvatīḥ | iṣaḥ