Sukta 1.27
स नो दूराच्चासाच्च नि मर्त्यादघायोः । पाहि सदमिद्विश्वायुः ॥
स नो॑ दू॒राच्चा॒साच्च॒ नि मर्त्या॑दघा॒योः । पा॒हि सद॒मिद्वि॒श्वायु॑: ॥
sa nó dūrā́c cāsā́c ca ní martyā́d aghāyóḥ | pāhí sádam íd viśvā́yuḥ ||
He—our all-life—protect us always from the evil-doer among mortals, from afar and from near; press down and keep away that harm.
सः । नः॒ । दू॒रात् । च॒ । आ॒सात् । च॒ । नि । मर्त्या॑त् । अ॒घ॒ऽयोः । पा॒हि । सद॑म् । इत् । वि॒श्वऽआ॑युः ॥सः । नः । दूरात् । च । आसात् । च । नि । मर्त्यात् । अघयोः । पाहि । सदम् । इत् । विश्वआयुः ॥saḥ | naḥ | dūrāt | ca | āsāt | ca | ni | martyāt | agha-yoḥ | pāhi | sadam | it | viśva-āyuḥ