Sukta 1.27
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् । अग्ने देवेषु प्र वोचः ॥
इ॒ममू॒ षु त्वम॒स्माकं॑ स॒निं गा॑य॒त्रं नव्यां॑सम् । अग्ने॑ दे॒वेषु॒ प्र वो॑चः ॥
imám ūṃ́ ṣú tvám asmā́kaṃ saním gāyatrám navyā́ṃsam | ágne devéṣu prá vócaḥ ||
This—yes—our winning chant, this ever-new Gāyatrī, do thou, O Agni, proclaim forward among the gods.
इ॒मम् । ऊँ॒ इति॑ । सु । त्वम् । अ॒स्माक॑म् । स॒निम् । गा॒य॒त्रम् । नव्यां॑सम् । अग्ने॑ । दे॒वेषु॑ । प्र । वो॒चः॒ ॥इमम् । ऊँ इति । सु । त्वम् । अस्माकम् । सनिम् । गायत्रम् । नव्यांसम् । अग्ने । देवेषु । प्र । वोचः ॥imam | oṃ iti | su | tvam | asmākam | sanim | gāyatram | navyāṃsam | agne | deveṣu | pra | vocaḥ