Sukta 1.26
प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः । प्रियाः स्वग्नयो वयम् ॥
प्रि॒यो नो॑ अस्तु वि॒श्पति॒र्होता॑ म॒न्द्रो वरे॑ण्यः । प्रि॒याः स्व॒ग्नयो॑ व॒यम् ॥
priyó no astu viśpátir hotā́ mandró váreṇyaḥ | priyā́ḥ svagnáyo vayám ||
May the Lord of the dwelling be dear to us—Agni the Hotṛ, the gladdening and choice-worthy; and may we be dear too, as those who carry the good fire within, fit companions of his flame.
प्रि॒यः । नः॒ । अ॒स्तु॒ । वि॒श्पतिः॑ । होता॑म् । म॒न्द्रः । वरे॑ण्यः । प्रि॒याः । सु॒ऽअ॒ग्नयः॑ । व॒यम् ॥प्रियः । नः । अस्तु । विश्पतिः । होताम् । मन्द्रः । वरेण्यः । प्रियाः । सुअग्नयः । वयम् ॥priyaḥ | naḥ | astu | viśpatiḥ | hotām | mandraḥ | vareṇyaḥ | priyāḥ | su-agnayaḥ | vayam