Sukta 1.26
यच्चिद्धि शश्वता तना देवंदेवं यजामहे । त्वे इद्धूयते हविः ॥
यच्चि॒द्धि शश्व॑ता॒ तना॑ दे॒वंदे॑वं॒ यजा॑महे । त्वे इद्धू॑यते ह॒विः ॥
yác cid dhí śáśvatā tánā deváṃ-devam yájāmahe | tvé íd hū́yate havíḥ ||
For whatever the godhead we worship, age after age, in the continuity of our being—yet it is into thee, O Agni, that the oblation is truly called; thou art the gateway of the offering to every divine power.
यत् । चि॒त् । हि । शश्व॑ता । तना॑ । दे॒वम्ऽदे॑वम् । यजा॑महे । त्वे इति॑ । इत् । हू॒य॒ते॒ । ह॒विः ॥यत् । चित् । हि । शश्वता । तना । देवम्देवम् । यजामहे । त्वे इति । इत् । हूयते । हविः ॥yat | cit | hi | śaśvatā | tanā | devam-devam | yajāmahe | tve iti | it | hūyate | haviḥ