Sukta 1.24
शतं ते राजन्भिषजः सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु । बाधस्व दूरे निॠतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत् ॥
श॒तं ते॑ राजन्भि॒षज॑: स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे॑ अस्तु । बाध॑स्व दू॒रे निॠ॑तिं परा॒चैः कृ॒तं चि॒देन॒: प्र मु॑मुग्ध्य॒स्मत् ॥
śatáṃ te rājan bhiṣájaḥ sahásram urvī́ gabhīrā́ sumatíṣ te astu | bā́dhasva dūré níṛtiṃ parācáiḥ kṛtáṃ cid énaḥ prá mumugdhya asmát ||
A hundred are your healings, O King, a thousand; may your vast and deep goodwill be ours. Drive far away Destruction (Nirṛti), outward and away; and even what fault we have fashioned, release it from us.
श॒तम् । ते॒ । रा॒ज॒न् । भि॒षजः॑ । स॒हस्र॑म् । उ॒र्वी । ग॒भी॒रा । सु॒ऽम॒तिः । ते॒ । अ॒स्तु॒ । बाध॑स्व । दू॒रे । निःऽऋ॑तिम् । परा॒चैः । कृ॒तम् । चि॒त् । एनः॒ । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥शतम् । ते । राजन् । भिषजः । सहस्रम् । उर्वी । गभीरा । सुमतिः । ते । अस्तु । बाधस्व । दूरे । निःऋतिम् । पराचैः । कृतम् । चित् । एनः । प्र । मुमुग्धि । अस्मत् ॥śatam | te | rājan | bhiṣajaḥ | sahasram | urvī | gabhīrā | su-matiḥ | te | astu | bādhasva | dūre | niḥ-ṛtim | parācaiḥ | kṛtam | cit | enaḥ | pra | mumugdhi | asmat