Sukta 1.24
अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्दिवेयुः । अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्तमेति ॥
अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः । अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति ॥
amī́ yá ṛ́kṣā níhitāsa uccā́ náktaṃ dádṛśre kúha cid dívā ī́yuḥ | adábdhāni váruṇasya vratā́ni vicā́kaśac candramā́ náktam eti ||
These stars that are set on high are seen by night—where indeed do they go by day? Unbetrayed are the laws of Varuṇa; the Moon moves through the night, making them manifest.
अ॒मी इति॑ । ये । ऋक्षाः॑ । निऽहि॑तासः । उ॒च्चा । नक्त॑म् । ददृ॑श्रे । कुह॑ । चि॒त् । दिवा॑ । ई॒युः॒ । अद॑ब्धानि । वरु॑णस्य । व्र॒तानि॑ । वि॒ऽचाक॑शत् । च॒न्द्रमाः॑ । नक्त॑म् । ए॒ति॒ ॥अमी इति । ये । ऋक्षाः । निहितासः । उच्चा । नक्तम् । ददृश्रे । कुह । चित् । दिवा । ईयुः । अदब्धानि । वरुणस्य । व्रतानि । विचाकशत् । चन्द्रमाः । नक्तम् । एति ॥amī iti | ye | ṛkṣāḥ | ni-hitāsaḥ | uccā | naktam | dṛdaśre | kuha | cit | divā | īyuḥ | adabdhāni | varuṇasya | vratāni | vi-cākaśat | candramāḥ | naktam | eti