Sukta 1.24
नहि ते क्षत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः । नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य प्रमिनन्त्यभ्वम् ॥
न॒हि ते॑ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय॑न्त आ॒पुः । नेमा आपो॑ अनिमि॒षं चर॑न्ती॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व॑म् ॥
náhi te kṣatráṃ ná sáho ná mányuṃ váyaś canā́mī patáyanta ā́puḥ | némā ā́po ani-míṣaṃ cárantīr ná ye vā́tasya prá-minanty ábhvam ||
Not your sovereignty, nor your might, nor your vehement force—nor even a winged creature can overtake. Nor these Waters moving unblinking can be checked, as they do not diminish the vastness of the Wind.
न॒हि । ते॒ । क्ष॒त्रम् । न । सहः॑ । न । म॒न्युम् । वयः॑ । च॒न । अ॒मी इति॑ । प॒तय॑न्तः । आ॒पुः । न । इ॒माः । आपः॑ । अ॒नि॒ऽमि॒षम् । चर॑न्तीः । न । ये । वात॑स्य । प्र॒ऽमि॒नन्ति॑ । अभ्व॑म् ॥नहि । ते । क्षत्रम् । न । सहः । न । मन्युम् । वयः । चन । अमी इति । पतयन्तः । आपुः । न । इमाः । आपः । अनिमिषम् । चरन्तीः । न । ये । वातस्य । प्रमिनन्ति । अभ्वम् ॥nahi | te | kṣatram | na | sahaḥ | na | manyum | vayaḥ | cana | amī iti | patayantaḥ | āpuḥ | na | imāḥ | āpaḥ | ani-miṣam | carantīḥ | na | ye | vātasya | pra-minanti | abhvam