Sukta 1.24
भगभक्तस्य ते वयमुदशेम तवावसा । मूर्धानं राय आरभे ॥
भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा । मू॒र्धानं॑ रा॒य आ॒रभे॑ ॥
bhága-bhaktasya te vayám úd aśema tavā́vasā | mūrdhā́naṃ rāyá ā́rabhe ||
We who partake of Bhaga’s gift—by your protection may we rise upward, and take hold of the summit of plenitude.
भग॑ऽभक्तस्य । ते॒ । व॒यम् । उत् । अ॒शे॒म॒ । तव॑ । अव॑सा । मू॒र्धान॑म् । रा॒यः । आ॒ऽरभे॑ ॥भगभक्तस्य । ते । वयम् । उत् । अशेम । तव । अवसा । मूर्धानम् । रायः । आरभे ॥bhaga-bhaktasya | te | vayam | ut | aśema | tava | avasā | mūrdhānam | rāyaḥ | ārabhe