Sukta 1.24
अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः । क्षयन्नस्मभ्यमसुर प्रचेता राजन्नेनांसि शिश्रथः कृतानि ॥
अव॑ ते॒ हेळो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भि॑: । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां॑सि शिश्रथः कृ॒तानि॑ ॥
áva te héḷo varuṇa námo-bhir áva yajñébhir īmahe havír-bhiḥ | kṣáyan asmábhyam asura praceta rājann enā́ṃsi śiśrathaḥ kṛtā́ni ||
Let your wrath be put down, O Varuṇa, by our obeisances; let it be put down by our sacrifices, by our offerings. Dwelling for us, O Asura of clear seeing, O King, loosen the faults that we have made.
अव॑ । ते॒ । हेळः॑ । व॒रु॒ण॒ । नमः॑ऽभिः । अव॑ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । ह॒विःऽभिः॑ । क्षय॑न् । अ॒स्मभ्य॑म् । अ॒सु॒र॒ । प्र॒चे॒त॒ इति॑ प्रऽचेतः । राज॑न् । एनां॑सि । शि॒श्र॒थः॒ । कृ॒तानि॑ ॥अव । ते । हेळः । वरुण । नमःभिः । अव । यज्ञेभिः । ईमहे । हविःभिः । क्षयन् । अस्मभ्यम् । असुर । प्रचेत इति प्रचेतः । राजन् । एनांसि । शिश्रथः । कृतानि ॥ava | te | heḷaḥ | varuṇa | namaḥ-bhiḥ | ava | yajñebhiḥ | īmahe | haviḥ-bhiḥ | kṣayan | asmabhyam | asura | pracetaitipra-cetaḥ | rājan | enāṃsi | śiśrathaḥ | kṛtāni