Sukta 1.24
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय । अथा वयमादित्य व्रते तवानागसो अदितये स्याम ॥
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥
úd uttamáṃ varuṇa pā́śam asmád ávādhamaṃ ví madhyámam śrathāya | áthā vayám āditya vraté tavānā́gaso áditaye syāma ||
Lift off from us the highest noose, O Varuṇa; loosen the lowest, and unfasten the middle. Then may we, O Āditya, be without stain in your law, and belong to Aditi—wide freedom.
उत् । उ॒त्ऽत॒मम् । व॒रु॒ण॒ । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म॒ध्य॒यमम् । श्र॒थ॒य॒ । अथ॑ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव॑ । अना॑गसः । अदि॑तये । स्या॒म॒ ॥उत् । उत्तमम् । वरुण । पाशम् । अस्मत् । अव । अधमम् । वि । मध्ययमम् । श्रथय । अथ । वयम् । आदित्य । व्रते । तव । अनागसः । अदितये । स्याम ॥ut | ut-tamam | varuṇa | pāśam | asmat | ava | adhamam | vi | madhyayamam | śrathaya | atha | vayam | āditya | vrate | tava | anāgasaḥ | aditaye | syāma