Sukta 1.21
ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः । ता गायत्रेषु गायत ॥
ता य॒ज्ञेषु॒ प्र शं॑सतेन्द्रा॒ग्नी शु॑म्भता नरः । ता गा॑य॒त्रेषु॑ गायत ॥
tā́ yajñéṣu prá śaṃsaténdrāgnī śúmbhatā naraḥ | tā́ gāyatréṣu gāyata ||
Proclaim them in the sacrifices—Indra and Agni—O human souls, and make yourselves radiant; sing them in the Gāyatrī measures so the right rhythm may shape the inner offering.
ता । य॒ज्ञेषु॑ । प्र । शं॒स॒त॒ । इ॒न्द्रा॒ग्नी इति॑ । शु॒म्भ॒त॒ । न॒रः॒ । ता । गा॒य॒त्रेषु॑ । गा॒य॒त॒ ॥ता । यज्ञेषु । प्र । शंसत । इन्द्राग्नी इति । शुम्भत । नरः । ता । गायत्रेषु । गायत ॥tā | yajñeṣu | pra | śaṃsata | indrāgnī iti | śumbhata | naraḥ | tā | gāyatreṣu | gāyata