Sukta 1.190
सं यं स्तुभोऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः । स विद्वाँ उभयं चष्टे अन्तर्बृहस्पतिस्तर आपश्च गृध्रः ॥
सं यं स्तुभो॒ऽवन॑यो॒ न यन्ति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः । स वि॒द्वाँ उ॒भयं॑ चष्टे अ॒न्तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्र॑: ॥
sáṃ yáṃ stubhó ’vánayo na yánti samudráṃ na sraváto ródha-cakrāḥ | sá vidvā́ṃ ubháyaṃ caṣṭe antár bṛ́haspátis tára ā́paś ca gṛ́dhraḥ ||
Whom the praises and downward currents join together, as streams with their banks move toward the ocean—he, the knower, sees both within: Br̥haspati, the overcomer, and the waters, the eager seeker-force.
सम् । यम् । स्तुभः॑ । अ॒वन॑यः । न । यन्ति॑ । स॒मु॒द्रम् । न । स्र॒वतः॑ । रोध॑ऽचक्राः । सः । वि॒द्वान् । उ॒भय॑म् । च॒ष्टे॒ । अ॒न्तः । बृह॒स्पतिः॑ । तरः॑ । आपः॑ । च॒ । गृध्रः॑ ॥सम् । यम् । स्तुभः । अवनयः । न । यन्ति । समुद्रम् । न । स्रवतः । रोधचक्राः । सः । विद्वान् । उभयम् । चष्टे । अन्तः । बृहस्पतिः । तरः । आपः । च । गृध्रः ॥sam | yam | stubhaḥ | avanayaḥ | na | yanti | samudram | na | sravataḥ | rodha-cakrāḥ | saḥ | vidvān | ubhayam | caṣṭe | antaḥ | bṛhaspatiḥ | taraḥ | āpaḥ | ca | gṛdhraḥ