Sukta 1.190
एवा महस्तुविजातस्तुविष्मान्बृहस्पतिर्वृषभो धायि देवः । स नः स्तुतो वीरवद्धातु गोमद्विद्यामेषं वृजनं जीरदानुम् ॥
ए॒वा म॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्बृह॒स्पति॑र्वृष॒भो धा॑यि दे॒वः । स न॑: स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
evā́ mahás tuvi-jātás tuviṣmā́n bṛ́haspátir vṛṣabhó dhā́yi deváḥ | sá naḥ stutó vī́ra-vad dhātu gómad vidyā́m éṣaṃ vṛ́janaṃ jī́ra-dānum ||
Thus, from the Great, widely born and mighty, Br̥haspati the bull has been set as a god. May he, when praised, give us heroic fullness and luminous riches; may we win the seeking-impulse and the battle-host, and the swift-giving abundance.
ए॒व । म॒हः । तु॒वि॒ऽजा॒तः । तुवि॑ष्मान् । बृह॒स्पतिः॑ । वृ॒ष॒भः । धा॒यि॒ । दे॒वः । सः । नः॒ । स्तु॒तः । वी॒रऽव॑त् । धा॒तु॒ । गोऽम॑त् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥एव । महः । तुविजातः । तुविष्मान् । बृहस्पतिः । वृषभः । धायि । देवः । सः । नः । स्तुतः । वीरवत् । धातु । गोमत् । विद्याम । इषम् । वृजनम् । जीरदानुम् ॥eva | mahaḥ | tuvi-jātaḥ | tuviṣmān | bṛhaspatiḥ | vṛṣabhaḥ | dhāya | deviḥ | saḥ | naḥ | stutaḥ | vīra-vat | dhātu | go--mat | vidyāma | iṣam | vṛjanam | jīra-dānum