Sukta 1.190
ये त्वा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः । न दूढ्ये अनु ददासि वामं बृहस्पते चयस इत्पियारुम् ॥
ये त्वा॑ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीव॑न्ति प॒ज्राः । न दू॒ढ्ये॒३॒॑ अनु॑ ददासि वा॒मं बृह॑स्पते॒ चय॑स॒ इत्पिया॑रुम् ॥
yé tvā deva usríkaṃ mányamānāḥ pāpā́ bhadrám upa-jī́vanti pajrā́ḥ | ná dū́ḍhye ánu dadāsi vā́maṃ bṛ́haspate cáyasa ít piyā́rum ||
Those who, O god, take you for a mere giver of pleasant gain—crooked in their being—live by the good only as a borrowed thing. You do not grant your dear riches to the dull and burdened mind; Br̥haspati, you gather the sweetness only for the one who is fit to hold it.
ये । त्वा॒ । दे॒व॒ । उ॒स्रि॒कम् । मन्य॑मानाः । पा॒पाः । भ॒द्रम् । उ॒प॒ऽजीव॑न्ति । प॒ज्राः । न । दुः॒ऽध्ये॑ । अनु॑ । द॒दा॒सि॒ । वा॒मम् । बृह॑स्पते । चय॑से । इत् । पिया॑रुम् ॥ये । त्वा । देव । उस्रिकम् । मन्यमानाः । पापाः । भद्रम् । उपजीवन्ति । पज्राः । न । दुःध्ये । अनु । ददासि । वामम् । बृहस्पते । चयसे । इत् । पियारुम् ॥ye | tvā | deva | usrikam | manyamānāḥ | pāpāḥ | bhadram | upa-jīvanti | pajrāḥ | na | duḥ-dhye | anu | dadāsi | vāmam | bṛhaspate | cayase | it | piyārum