Sukta 1.190
अस्य श्लोको दिवीयते पृथिव्यामत्यो न यंसद्यक्षभृद्विचेताः । मृगाणां न हेतयो यन्ति चेमा बृहस्पतेरहिमायाँ अभि द्यून् ॥
अ॒स्य श्लोको॑ दि॒वीय॑ते पृथि॒व्यामत्यो॒ न यं॑सद्यक्ष॒भृद्विचे॑ताः । मृ॒गाणां॒ न हे॒तयो॒ यन्ति॑ चे॒मा बृह॒स्पते॒रहि॑मायाँ अ॒भि द्यून् ॥
asyá ślóko divī́yate pṛthivyā́m átyo na yaṃsad yákṣa-bhṛ́d ví-cetāḥ | mṛgā́ṇāṃ na hetáyo yánti cemā́ bṛ́haspáter áhi-māyāṃ abhí dyū́n ||
This hymn moves in heaven and on earth; the discerning bearer of power drives it like a swift steed. These his thrusts go forth like the darts of wild creatures, against the serpent’s deceptions—against the days that are clouded by that crooked magic.
अ॒स्य । श्लोकः॑ । दि॒वि । ई॒य॒ते॒ । पृ॒थि॒व्याम् । अत्यः॑ । न । यं॒स॒त् । य॒क्ष॒ऽभृत् । विऽचे॑ताः । मृ॒गाणा॑म् । न । हे॒तयः॑ । यन्ति॑ । च॒ । इ॒माः । बृह॒स्पतेः॑ । अहि॑ऽमायान् । अ॒भि । द्यून् ॥अस्य । श्लोकः । दिवि । ईयते । पृथिव्याम् । अत्यः । न । यंसत् । यक्षभृत् । विचेताः । मृगाणाम् । न । हेतयः । यन्ति । च । इमाः । बृहस्पतेः । अहिमायान् । अभि । द्यून् ॥asya | ślokaḥ | divi | īyate | pṛthivyām | atyaḥ | na | yaṃsat | yakṣa-bhṛt | vi-cetāḥ | mṛgāṇām | na | hetayaḥ | yanti | ca | imāḥ | bṛhaspateḥ | ahi-māyān | abhi | dyūn