Sukta 1.190
उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत्सवितेव प्र बाहू । अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस्तुविष्मान् ॥
उप॑स्तुतिं॒ नम॑स॒ उद्य॑तिं च॒ श्लोकं॑ यंसत्सवि॒तेव॒ प्र बा॒हू । अ॒स्य क्रत्वा॑ह॒न्यो॒३॒॑ यो अस्ति॑ मृ॒गो न भी॒मो अ॑र॒क्षस॒स्तुवि॑ष्मान् ॥
upástutiṃ námasa údyatiṃ ca ślókaṃ yaṃsat savitéva prá bāhū́ | asyá kratvā́hanyò yó ásti mṛgó na bhīmó arákṣasaḥ túviṣmān ||
He extends upward the praise and the bowing, and he stretches forth the hymn like Savitṛ spreading his arms. By his will he is the unconquerable day-force—like a dread beast to the hostile darkness—mighty, and without need of any guarding.
उप॑ऽस्तुतिम् । नम॑सः । उत्ऽय॑तिम् । च॒ । श्लोक॑म् । यं॒स॒त् । स॒वि॒ताऽइ॑व । प्र । बा॒हू इति॑ । अ॒स्य । क्रत्वा॑ । अ॒ह॒न्यः॑ । यः । अस्ति॑ । मृ॒गः । न । भी॒मः । अ॒र॒क्षसः॒ । तुवि॑ष्मान् ॥उपस्तुतिम् । नमसः । उत्यतिम् । च । श्लोकम् । यंसत् । सविताइव । प्र । बाहू इति । अस्य । क्रत्वा । अहन्यः । यः । अस्ति । मृगः । न । भीमः । अरक्षसः । तुविष्मान् ॥upa-stutim | namasaḥ | ut-yatim | ca | ślokam | yaṃsat | savitāiva | pra | bāhū iti | asya | kratvā | ahanyaḥ | yaḥ | asti | mṛgaḥ | na | bhīmaḥ | arakṣasaḥ | tuvi ṣmān