Sukta 1.190
तमृत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि । बृहस्पतिः स ह्यञ्जो वरांसि विभ्वाभवत्समृते मातरिश्वा ॥
तमृ॒त्विया॒ उप॒ वाच॑: सचन्ते॒ सर्गो॒ न यो दे॑वय॒तामस॑र्जि । बृह॒स्पति॒: स ह्यञ्जो॒ वरां॑सि॒ विभ्वाभ॑व॒त्समृ॒ते मा॑त॒रिश्वा॑ ॥
tam ṛtviyā́ upa vā́caḥ sacante sárgo na yó devayatā́m ásarji | bṛ́haspátiḥ sá hí áñjo várāṃsi ví-bhvā́ abhavat sám ṛté mātáriśvā́ ||
To him the season-wise utterances draw near—like a welling forth that he releases for those who seek the Divine. For Br̥haspati, becoming all-pervading, sets the choicest plenitudes straight in the truth of Ṛta; and Mātariśvan gathers them into a single harmony.
तम् । ऋ॒त्वियाः॑ । उप॑ । वाचः॑ । स॒च॒न्ते॒ । सर्गः॑ । न । यः । दे॒व॒ऽय॒ताम् । अस॑र्जि । बृह॒स्पतिः॑ । सः । हि । अञ्जः॑ । वरां॑सि । विऽभ्वा॑ । अभ॑वत् । सम् । ऋ॒ते । मा॒त॒रिश्वा॑ ॥तम् । ऋत्वियाः । उप । वाचः । सचन्ते । सर्गः । न । यः । देवयताम् । असर्जि । बृहस्पतिः । सः । हि । अञ्जः । वरांसि । विभ्वा । अभवत् । सम् । ऋते । मातरिश्वा ॥tam | ṛtviyāḥ | upa | vācaḥ | sacante | sargaḥ | na | yaḥ | deva-yatām | asarji | bṛhaspatiḥ | saḥ | hi | añjaḥ | varāṃsi | vi-bhvā | abhavat | sam | ṛte | mātariśvā