Sukta 1.190
अनर्वाणं वृषभं मन्द्रजिह्वं बृहस्पतिं वर्धया नव्यमर्कैः । गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः ॥
अ॒न॒र्वाणं॑ वृष॒भं म॒न्द्रजि॑ह्वं॒ बृह॒स्पतिं॑ वर्धया॒ नव्य॑म॒र्कैः । गा॒था॒न्य॑: सु॒रुचो॒ यस्य॑ दे॒वा आ॑शृ॒ण्वन्ति॒ नव॑मानस्य॒ मर्ता॑: ॥
anarvā́ṇaṃ vṛṣabháṃ mandrá-jihvaṃ bृहáspátiṃ vardhayā navyám arkáiḥ | gāthānyàḥ su-rúco yásya devā́ āśṛṇvánti návamānasya mártāḥ ||
Increase by new hymns Brihaspati—the unwearied bull with the rapturous tongue—he whose bright songs the gods listen to, and the mortals who seek renewal. May this power of inspired speech grow in us into luminous right-guidance.
अ॒न॒र्वाण॑म् । वृ॒ष॒भम् । म॒न्द्रऽजि॑ह्वम् । बृह॒स्पति॑म् । व॒र्ध॒य॒ । नव्य॑म् । अ॒र्कैः । गा॒था॒न्यः॑ । सु॒ऽरुचः॑ । यस्य॑ । दे॒वाः । आ॒ऽशृ॒ण्वन्ति॑ । नव॑मानस्य । मर्ताः॑ ॥अनर्वाणम् । वृषभम् । मन्द्रजिह्वम् । बृहस्पतिम् । वर्धय । नव्यम् । अर्कैः । गाथान्यः । सुरुचः । यस्य । देवाः । आशृण्वन्ति । नवमानस्य । मर्ताः ॥anarvāṇam | vṛṣabham | mandra-jihvam | bṛhaspatim | vardhaya | navyam | arkaiḥ | gāthānyaḥ | su-rucaḥ | yasya | devāḥ | āśṛṇvanti | navamānasya | matārḥ