Sukta 1.19
आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा । मरुद्भिरग्न आ गहि ॥
आ ये त॒न्वन्ति॑ र॒श्मिभि॑स्ति॒रः स॑मु॒द्रमोज॑सा । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
ā́ yé tanvánti raśmíbhis tiráḥ samudrám ójasā | marúdbhir agne ā́ gáhi ||
Come, O Agni, with the Maruts—those who stretch their rays of power across the ocean; they extend luminous threads through the vastness and connect the higher light to the lower being by strength (ojas).
आ । ये । त॒न्वन्ति॑ । र॒श्मिऽभिः॑ । ति॒रः । स॒मु॒द्रम् । ओज॑सा । म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥आ । ये । तन्वन्ति । रश्मिभिः । तिरः । समुद्रम् । ओजसा । मरुत्भिः । अग्ने । आ । गहि ॥ā | ye | tanvanti | raśmi-bhiḥ | tiraḥ | samudram | ojasā | marut-bhiḥ | agne | ā | gahi