Sukta 1.19
अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु । मरुद्भिरग्न आ गहि ॥
अ॒भि त्वा॑ पू॒र्वपी॑तये सृ॒जामि॑ सो॒म्यं मधु॑ । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
abhí tvā pūrvápītaye sṛjā́mi sómyaṃ mádhu | marúdbhir agne ā́ gáhi ||
For thy first drinking, I pour out toward thee the Soma-honey: come, O Agni, with the Maruts, and take the delight that awakens the will and sets the powers in harmonious action.
अ॒भि । त्वा॒ । पू॒र्वऽपी॑तये । सृ॒जामि॑ । सो॒म्यम् । मधु॑ । म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥अभि । त्वा । पूर्वपीतये । सृजामि । सोम्यम् । मधु । मरुत्भिः । अग्ने । आ । गहि ॥abhi | tvā | pūrva-pītaye | sṛjāmi | somyam | madhu | marut-bhiḥ | agne | ā | gahi