Sukta 1.19
ये नाकस्याधि रोचने दिवि देवास आसते । मरुद्भिरग्न आ गहि ॥
ये नाक॒स्याधि॑ रोच॒ने दि॒वि दे॒वास॒ आस॑ते । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
yé nākásyā́dhi rocané diví devā́sa ā́sate | marúdbhir agne ā́ gáhi ||
O Agni, come with the Maruts—those luminous powers who take their seat in the shining realm of the heaven of consciousness, upon the radiance that crowns the summit (nāka).
ये । नाक॑स्य । अधि॑ । रो॒च॒ने । दि॒वि । दे॒वासः । आस॑ते । म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥ये । नाकस्य । अधि । रोचने । दिवि । देवासः । आसते । मरुत्भिः । अग्ने । आ । गहि ॥ye | nākasya | adhi | rocane | divi | devāsaḥ | āsate | marut-bhiḥ | agne | ā | gahi