Sukta 1.19
ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः । मरुद्भिरग्न आ गहि ॥
ये शु॒भ्रा घो॒रव॑र्पसः सुक्ष॒त्रासो॑ रि॒शाद॑सः । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
yé śubhrā́ ghóravarpasaḥ sukṣatrā́so riśā́dasaḥ | marúdbhír agne ā́ gahi ||
Come, O Agni, with the Maruts—bright, terrible in form, strong in right rule; destroyers of what harms: let their luminous might purify us and cut away the devouring impulses that obstruct the truth.
ये । शु॒भ्राः । घो॒रऽव॑र्पसः । सु॒ऽक्ष॒त्रासः॑ । रि॒शाद॑सः । म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥ये । शुभ्राः । घोरवर्पसः । सुक्षत्रासः । रिशादसः । मरुत्भिः । अग्ने । आ । गहि ॥ye | śubhrāḥ | ghora-varpasaḥ | su-kṣatrāsaḥ | riśādasaḥ | marut-bhiḥ | agne | ā | gahi