Sukta 1.19
नहि देवो न मर्त्यो महस्तव क्रतुं परः । मरुद्भिरग्न आ गहि ॥
न॒हि दे॒वो न मर्त्यो॑ म॒हस्तव॒ क्रतुं॑ प॒रः । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
náhi devó ná mártyo mahás táva krátuṃ paráḥ | marúdbhír agne ā́ gahi ||
Neither god nor mortal is beyond your greatness of will and intelligent force; therefore come, O Agni, with the Maruts—bring that vast power into our work of offering.
न॒हि । दे॒वः । न । मर्त्यः॑ । म॒हः । तव॑ । क्रतु॑म् । प॒रः । म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥नहि । देवः । न । मर्त्यः । महः । तव । क्रतुम् । परः । मरुत्भिः । अग्ने । आ । गहि ॥nahi | devaḥ | na | martyaḥ | mahaḥ | tava | kratum | paraḥ | marut-bhiḥ | agne | ā | gahi