Sukta 1.186
उत न ईं मरुतो वृद्धसेनाः स्मद्रोदसी समनसः सदन्तु । पृषदश्वासोऽवनयो न रथा रिशादसो मित्रयुजो न देवाः ॥
उ॒त न॑ ईं म॒रुतो॑ वृ॒द्धसे॑ना॒: स्मद्रोद॑सी॒ सम॑नसः सदन्तु । पृष॑दश्वासो॒ऽवन॑यो॒ न रथा॑ रि॒शाद॑सो मित्र॒युजो॒ न दे॒वाः ॥
utá na īṃ marúto vṛ́ddhasenā́ḥ smád rodasī́ sámanasaḥ sadantu | pṛ́ṣadaśvāso’vánayo ná rathā́ riśā́daso mitráyújo ná devā́ḥ ||
And may the Maruts, with their grown armies, sit with us in one mind, together with Heaven and Earth. With dappled steeds, like chariots of the woodlands, devourers of the hostile, yoked to friendship—may these gods take their seat.
उ॒त । नः॒ । ई॒म् । म॒रुतः॑ । वृ॒द्धऽसे॑नाः॒ । स्मत् । रोद॑सी॒ इति॑ । सऽम॑नसः । स॒द॒न्तु॒ । पृष॑त्ऽअश्वासः । वन॑यः । न । रथाः॑ । रि॒शाद॑सः । मि॒त्र॒ऽयुजः॑ । न । दे॒वाः ॥उत । नः । ईम् । मरुतः । वृद्धसेनाः । स्मत् । रोदसी इति । समनसः । सदन्तु । पृषत्अश्वासः । वनयः । न । रथाः । रिशादसः । मित्रयुजः । न । देवाः ॥uta | naḥ | īm | marutaḥ | vṛddha-senāḥ | smat | rodasī iti | sa-manasaḥ | sadantu | pṛṣat-aśvāsaḥ | vanayaḥ | na | rathāḥ | riśādasaḥ | mitra-yujaḥ | na | devāḥ