Sukta 1.186
उत न ईं मतयोऽश्वयोगाः शिशुं न गावस्तरुणं रिहन्ति । तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसन्त ॥
उ॒त न॑ ईं म॒तयोऽश्व॑योगा॒: शिशुं॒ न गाव॒स्तरु॑णं रिहन्ति । तमीं॒ गिरो॒ जन॑यो॒ न पत्नी॑: सुर॒भिष्ट॑मं न॒रां न॑सन्त ॥
utá na īṃ matáyo’śvayogā́ḥ śíśuṃ ná gā́vas tár uṇaṃ rihanti | tám īṃ gíro jánayo ná pátnīḥ surabhíṣṭamaṃ narā́ṃ nasanta ||
And may our thoughts, yoked like steeds, lick and foster him as cows their young calf. Him the utterances, like wives their lord, draw near—the most fragrant (most delight-giving) among men.
उ॒त । नः॒ । ई॒म् । म॒तयः॑ । अश्व॑ऽयोगाः । शिशु॑म् । न । गावः॑ । तरु॑णम् । रि॒ह॒न्ति॒ । तम् । ई॒म् । गिरः॑ । जन॑यः । न । पत्नीः॑ । सु॒र॒भिःऽत॑मम् । न॒राम् । न॒स॒न्त॒ ॥उत । नः । ईम् । मतयः । अश्वयोगाः । शिशुम् । न । गावः । तरुणम् । रिहन्ति । तम् । ईम् । गिरः । जनयः । न । पत्नीः । सुरभिःतमम् । नराम् । नसन्त ॥uta | naḥ | īm | matayaḥ | aśva-yogāḥ | śiśum | na | gāvaḥ | taruṇam | rihanti | tam | īm | giraḥ | janayaḥ | na | patnīḥ | surabhiḥ-tamam | narām | nasanta