Sukta 1.186
प्रेष्ठं वो अतिथिं गृणीषेऽग्निं शस्तिभिस्तुर्वणिः सजोषाः । असद्यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः ॥
प्रेष्ठं॑ वो॒ अति॑थिं गृणीषे॒ऽग्निं श॒स्तिभि॑स्तु॒र्वणि॑: स॒जोषा॑: । अस॒द्यथा॑ नो॒ वरु॑णः सुकी॒र्तिरिष॑श्च पर्षदरिगू॒र्तः सू॒रिः ॥
préṣṭhaṃ vo átithiṃ gṛṇīṣe’gníṃ śastíbhis turváṇiḥ sajóṣāḥ | asád yáthā no váruṇaḥ sukī́rtir íṣaś ca párṣad arigū́rtaḥ sū́riḥ ||
I utter for you the most beloved Guest—Agni, the swift impeller—praised with our affirmations, in a harmony of one delight. May Varuṇa, of luminous renown, be so with us; and may the well-guided seer carry us across to the impulsions of plenitude, beyond the hostile resistances.
प्रेष्ठ॑म् । वः॒ । अति॑थिम् । गृ॒णी॒षे॒ । अ॒ग्निम् । श॒स्तिऽभिः॑ । तु॒र्वणिः॑ । स॒ऽजोषाः॑ । अस॑त् । यथा॑ । नः॒ । वरु॑णः । सु॒ऽकी॒र्तिः । इषः॑ । च॒ । प॒र्ष॒त् । अ॒रि॒ऽगू॒र्तः । सू॒रिः ॥प्रेष्ठम् । वः । अतिथिम् । गृणीषे । अग्निम् । शस्तिभिः । तुर्वणिः । सजोषाः । असत् । यथा । नः । वरुणः । सुकीर्तिः । इषः । च । पर्षत् । अरिगूर्तः । सूरिः ॥preṣṭham | vaḥ | atithim | gṛṇīṣe | agnim | śasti-bhiḥ | turvaṇiḥ | sa-joṣāḥ | asat | yathā | naḥ | varuṇaḥ | su-kīrtiḥ | iṣaḥ | ca | parṣat | ari-gūrtaḥ | sūriḥ