Sukta 1.186
आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः । भुवन्यथा नो विश्वे वृधासः करन्त्सुषाहा विथुरं न शवः ॥
आ नो॒ विश्व॒ आस्क्रा॑ गमन्तु दे॒वा मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषा॑: । भुव॒न्यथा॑ नो॒ विश्वे॑ वृ॒धास॒: कर॑न्त्सु॒षाहा॑ विथु॒रं न शव॑: ॥
ā́ no víśva ā́skrā gamantu devā́ mitró aryamā́ váruṇaḥ sajóṣāḥ | bhúvan yáthā no víśve vṛdhā́sáḥ káran suṣáhā vithuráṃ ná śávaḥ ||
May all the gods come to us in swift advance—Mitra, Aryaman, Varuṇa in one accord—so that all the increasers may become for us powers of firm endurance, making our force unshaken, not scattered.
आ । नः॒ । विश्वे॑ । आस्क्राः॑ । ग॒म॒न्तु॒ । दे॒वाः । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । स॒ऽजोषाः॑ । भुव॑न् । यथा॑ । नः॒ । विश्वे॑ । वृ॒धासः॑ । कर॑न् । सु॒ऽसहा॑ । वि॒थु॒रम् । न । शवः॑ ॥आ । नः । विश्वे । आस्क्राः । गमन्तु । देवाः । मित्रः । अर्यमा । वरुणः । सजोषाः । भुवन् । यथा । नः । विश्वे । वृधासः । करन् । सुसहा । विथुरम् । न । शवः ॥ā | naḥ | viśve | āskrāḥ | gamantu | devāḥ | mitraḥ | aryamā | varuṇaḥ | sa-joṣāḥ | bhuvan | yathā | naḥ | viśve | vṛdhāsaḥ | karan | su-sahā | vithuram | na | śavaḥ