Sukta 1.184
एष वां स्तोमो अश्विनावकारि मानेभिर्मघवाना सुवृक्ति । यातं वर्तिस्तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥
ए॒ष वां॒ स्तोमो॑ अश्विनावकारि॒ माने॑भिर्मघवाना सुवृ॒क्ति । या॒तं व॒र्तिस्तन॑याय॒ त्मने॑ चा॒गस्त्ये॑ नासत्या॒ मद॑न्ता ॥
eṣá vām stómó aśvināv akāri mā́nebhir maghavānā suvṛ́kti | yā́taṃ vartís tanáyāya tmáne cāgastyé nāsatyā mádantā ||
This hymn to you, O Aśvins, has been fashioned with measures, a well-turned utterance, O generous ones. Come to our turning-point for the child and for the self; and in Agastya’s offering, O Nāsatyas, take your delight.
ए॒षः । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒का॒रि॒ । माने॑भिः । म॒घ॒ऽवा॒ना॒ । सु॒ऽवृ॒क्ति । या॒तम् । व॒र्तिः । तन॑याय । त्मने॑ । च॒ । अ॒गस्त्ये॑ । ना॒स॒त्या॒ । मद॑न्ता ॥एषः । वाम् । स्तोमः । अश्विनौ । अकारि । मानेभिः । मघवाना । सुवृक्ति । यातम् । वर्तिः । तनयाय । त्मने । च । अगस्त्ये । नासत्या । मदन्ता ॥eṣaḥ | vām | stomaḥ | aśvinau | akāri | mānebhiḥ | magha-vānā | su-vṛkti | yātam | vartiḥ | tanayāya | tmane | ca | agastye | nāsatyā | madantā