Sukta 1.184
अस्मे सा वां माध्वी रातिरस्तु स्तोमं हिनोतं मान्यस्य कारोः । अनु यद्वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ॥
अ॒स्मे सा वां॑ माध्वी रा॒तिर॑स्तु॒ स्तोमं॑ हिनोतं मा॒न्यस्य॑ का॒रोः । अनु॒ यद्वां॑ श्रव॒स्या॑ सुदानू सु॒वीर्या॑य चर्ष॒णयो॒ मद॑न्ति ॥
asmé sā́ vāṃ mādhvī́ rātír astu stómaṃ hinotaṃ mānyásya kāróḥ | ánu yád vāṃ śravasyā́ sudānū suvī́ryāya carṣaṇáyo mádanti ||
In us let there be that honeyed gift of yours; urge forward the hymn of the worthy singer. For when your fame is followed, O bountiful ones, the peoples rejoice toward a greater heroic power.
अ॒स्मे इति॑ । सा । वा॒म् । मा॒ध्वी॒ इति॑ । रा॒तिः । अ॒स्तु॒ । स्तोम॑म् । हि॒नो॒त॒म् । मा॒न्यस्य॑ । का॒रोः । अनु॑ । यत् । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । सु॒ऽवीर्या॑य । च॒र्ष॒णयः॑ । मद॑न्ति ॥अस्मे इति । सा । वाम् । माध्वी इति । रातिः । अस्तु । स्तोमम् । हिनोतम् । मान्यस्य । कारोः । अनु । यत् । वाम् । श्रवस्या । सुदानू इति सुदानू । सुवीर्याय । चर्षणयः । मदन्ति ॥asme iti | sā | vām | mādhvī iti | rātiḥ | astu | stomam | hinotam | mānyasya | kāroḥ | anu | yat | vām | śravasyā | sudānūitisu-dānū | su-vīryāya | carṣaṇayaḥ | madanti