Sukta 1.184
अस्मे ऊ षु वृषणा मादयेथामुत्पणीँर्हतमूर्म्या मदन्ता । श्रुतं मे अच्छोक्तिभिर्मतीनामेष्टा नरा निचेतारा च कर्णैः ॥
अ॒स्मे ऊ॒ षु वृ॑षणा मादयेथा॒मुत्प॒णीँर्ह॑तमू॒र्म्या मद॑न्ता । श्रु॒तं मे॒ अच्छो॑क्तिभिर्मती॒नामेष्टा॑ नरा॒ निचे॑तारा च॒ कर्णै॑: ॥
asmé ū ṣú vṛṣaṇā mādayethām ut-paṇī́ṃr hatam ū́rmyā mádantā | śrutáṃ me ácchoktibhir matīnā́m eṣṭā́ narā ní-cetārā ca kárṇaiḥ ||
In us, indeed, O strong ones, take your delight; striking down the hoarders, rejoice with the wave of force. Hear what is well-spoken by my thought-forms—O two heroes, fulfillers of the seeking—discern it with your ears that truly notice.
अ॒स्मे इति॑ । ऊँ॒ इति॑ । सु । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् । उत् प॒णीन् । ह॒त॒म् । ऊ॒र्म्या । मद॑न्ता । श्रु॒तम् । मे॒ । अच्छो॑क्तिऽभिः । म॒ती॒नाम् । एष्टा॑ । न॒रा॒ । निऽचे॑तारा । च॒ । कर्णैः॑ ॥अस्मे इति । ऊँ इति । सु । वृषणा । मादयेथाम् । उत् पणीन् । हतम् । ऊर्म्या । मदन्ता । श्रुतम् । मे । अच्छोक्तिभिः । मतीनाम् । एष्टा । नरा । निचेतारा । च । कर्णैः ॥asme iti | oṃ iti | su | vṛṣaṇā | mādayethām | ut paṇīn | hatam | ūrmyā | madantā | śrutam | me | acchokti-bhiḥ | matīnām | eṣṭā | narā | ni-cetārā | ca | karṇaiḥ