Sukta 1.184
ता वामद्य तावपरं हुवेमोच्छन्त्यामुषसि वह्निरुक्थैः । नासत्या कुह चित्सन्तावर्यो दिवो नपाता सुदास्तराय ॥
ता वा॑म॒द्य ताव॑प॒रं हु॑वेमो॒च्छन्त्या॑मु॒षसि॒ वह्नि॑रु॒क्थैः । नास॑त्या॒ कुह॑ चि॒त्सन्ता॑व॒र्यो दि॒वो नपा॑ता सु॒दास्त॑राय ॥
tā́ vām adyá tā́v aparaṃ huvemócchantyā́m uṣási váhnir ukthaíḥ | nā́satyā kúha cit sántāv aryó divó napātā sudā́starāya ||
You two—yes, you two—today we call again and yet again, at the dawning of the Uṣas, with the flaming bearer through our hymns. O Nāsatyas, wherever you are, sons of heaven, come for a richer giving that carries us across.
ता । वा॒म् । अ॒द्य । तौ । अ॒प॒रम् । हु॒वे॒म॒ । उ॒च्छन्त्या॑म् । उ॒षसि॑ । वह्निः॑ । उ॒क्थैः । नास॑त्या । कुह॑ । चि॒त् । सन्तौ॑ । अ॒र्यः । दि॒वः । नपा॑ता । सु॒दाःऽत॑राय ॥ता । वाम् । अद्य । तौ । अपरम् । हुवेम । उच्छन्त्याम् । उषसि । वह्निः । उक्थैः । नासत्या । कुह । चित् । सन्तौ । अर्यः । दिवः । नपाता । सुदाःतराय ॥tā | vām | adya | tau | aparam | huvema | ucchantyām | uṣasi | vahniḥ | ukthaiḥ | nāsatyā | kuha | cit | santau | aryaḥ | divaḥ | napātā | sudāḥ-tarāya