Sukta 1.183
आ तिष्ठतं सुवृतं यो रथो वामनु व्रतानि वर्तते हविष्मान् । येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च ॥
आ ति॑ष्ठतं सु॒वृतं॒ यो रथो॑ वा॒मनु॑ व्र॒तानि॒ वर्त॑ते ह॒विष्मा॑न् । येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥
ā́ tiṣṭhatam suvṛ́taṃ yó rátho vām ánu vratā́ni vártate havíṣmān | yéna narā nāsatyéṣayadhyai vártír yā́thas tanáyāya tmáne ca ||
Mount the well-guided chariot that follows your laws, rich with the offering-force. By it, O heroes, O Nāsatyas, you go to awaken the impulsion—bringing the turning path for the child of the being and for the inner self.
आ । ति॒ष्ठ॒त॒म् । सु॒ऽवृत॑म् । यः । रथः॑ । वा॒म् । अनु॑ । व्र॒तानि॑ । वर्त॑ते । ह॒विष्मा॑न् । येन॑ । न॒रा॒ । ना॒स॒त्या॒ । इ॒ष॒यध्यै॑ । व॒र्तिः । या॒थः । तन॑याय । त्मने॑ । च॒ ॥आ । तिष्ठतम् । सुवृतम् । यः । रथः । वाम् । अनु । व्रतानि । वर्तते । हविष्मान् । येन । नरा । नासत्या । इषयध्यै । वर्तिः । याथः । तनयाय । त्मने । च ॥ā | tiṣṭhatam | su-vṛtam | yaḥ | rathaḥ | vām | anu | vratāni | vartate | haviṣmān | yena | narā | nāsatyā | iṣayadhyai | vartiḥ | yāthaḥ | tanayāya | tmane | ca