Sukta 1.183
सुवृद्रथो वर्तते यन्नभि क्षां यत्तिष्ठथः क्रतुमन्तानु पृक्षे । वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे ॥
सु॒वृद्रथो॑ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ॑थ॒: क्रतु॑म॒न्तानु॑ पृ॒क्षे । वपु॑र्वपु॒ष्या स॑चतामि॒यं गीर्दि॒वो दु॑हि॒त्रोषसा॑ सचेथे ॥
suvṛ́dratho vartate yánn abhí kṣā́ṃ yát tiṣṭhathaḥ krátumantā́ ánu pṛkṣé | vápur vapuṣyā́ sacatām iyáṃ gī́r divó duhitrá uṣásā sacethe ||
Your well-turning chariot moves over the earth; when you take your stand, you two of will follow the sprinkling and the increase. Let this hymn join you in your beauty—O Dawn, daughter of Heaven, you too accompany them.
सु॒ऽवृत् । रथः॑ । व॒र्त॒ते॒ । यन् । अ॒भि । क्षाम् । यत् । तिष्ठ॑थः । क्रतु॑ऽमन्ता । अनु॑ । पृ॒क्षे । वपुः॑ । व॒पु॒ष्या । स॒च॒ता॒म् । इ॒यम् । गीः । दि॒वः । दु॒हि॒त्रा । उ॒षसा॑ । स॒चे॒थे॒ इति॑ ॥सुवृत् । रथः । वर्तते । यन् । अभि । क्षाम् । यत् । तिष्ठथः । क्रतुमन्ता । अनु । पृक्षे । वपुः । वपुष्या । सचताम् । इयम् । गीः । दिवः । दुहित्रा । उषसा । सचेथे इति ॥su-vṛt | rathaḥ | vartate | yan | abhi | kṣām | yat | tiṣṭhathaḥ | kratu-mantā | anu | pṛkṣe | vapuḥ | vapuṣyā | sacatām | iyam | gīḥ | divaḥ | duhitrā | uṣasā | sacetheiti