Sukta 1.183
तं युञ्जाथां मनसो यो जवीयान्त्रिवन्धुरो वृषणा यस्त्रिचक्रः । येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर्न पर्णैः ॥
तं यु॑ञ्जाथां॒ मन॑सो॒ यो जवी॑यान्त्रिवन्धु॒रो वृ॑षणा॒ यस्त्रि॑च॒क्रः । येनो॑पया॒थः सु॒कृतो॑ दुरो॒णं त्रि॒धातु॑ना पतथो॒ विर्न प॒र्णैः ॥
táṃ yuñjāthāṃ mánaso yó javī́yān trivandhuró vṛṣaṇā yás tricakráḥ | yéno payā́thaḥ sukṛ́to duróṇaṃ tridhā́tunā patatho vír ná párṇaiḥ ||
Yoke that chariot of yours, O strong ones, swifter than mind, three-seated, three-wheeled—by which you come to the well-built home; with its triple foundation you fly apart like birds with wings.
तम् । यु॒ञ्जा॒था॒म् । मन॑सः । यः । जवी॑यान् । त्रि॒ऽव॒न्धु॒रः । वृ॒ष॒णा॒ । यः । त्रि॒ऽच॒क्रः । येन॑ । उ॒प॒ऽया॒थः । सु॒ऽकृतः॑ । दु॒रो॒णम् । त्रि॒ऽधातु॑ना । प॒त॒थः॒ । विः । न । प॒र्णैः ॥तम् । युञ्जाथाम् । मनसः । यः । जवीयान् । त्रिवन्धुरः । वृषणा । यः । त्रिचक्रः । येन । उपयाथः । सुकृतः । दुरोणम् । त्रिधातुना । पतथः । विः । न । पर्णैः ॥tam | yuñjāthām | manasaḥ | yaḥ | javīyān | tri-vandhuraḥ | vṛṣaṇā | yaḥ | tri-cakraḥ | yena | upa-yāthaḥ | su-kṛtaḥ | duroṇam | tri-dhātunā | patathaḥ | viḥ | na | parṇaiḥ