Sukta 1.182
कः स्विद्वृक्षो निःष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत् । पर्णा मृगस्य पतरोरिवारभ उदश्विना ऊहथुः श्रोमताय कम् ॥
कः स्वि॑द्वृ॒क्षो निःष्ठि॑तो॒ मध्ये॒ अर्ण॑सो॒ यं तौ॒ग्र्यो ना॑धि॒तः प॒र्यष॑स्वजत् । प॒र्णा मृ॒गस्य॑ प॒तरो॑रिवा॒रभ॒ उद॑श्विना ऊहथु॒: श्रोम॑ताय॒ कम् ॥
káḥ svíd vṛkṣó níḥṣṭhito mádhye árṇaso yáṃ taugryó nā́dhitaḥ páryaṣasvajat | párṇā mṛgásya pátaror ivārabha úd aśvinā ūhathuḥ śrómātāya kám ||
What was that tree standing forth in the midst of the flood, which the afflicted Taugrya clasped around? As one clings to the two wings of a flying creature, so, O Ashvins, you bore him up and out for his saving.
कः । स्वि॒त् । वृ॒क्षः । निःऽस्थि॑तः । मध्ये॑ । अर्ण॑सः । यम् । तौ॒ग्र्यः । ना॒धि॒तः । प॒रि॒ऽअष॑स्वजत् । प॒र्णा । मृ॒गस्य॑ । प॒तरोः॑ऽइव । आ॒ऽरभे॑ । उत् । अ॒श्वि॒ना॒ । ऊ॒ह॒थुः॒ । श्रोम॑ताय । कम् ॥कः । स्वित् । वृक्षः । निःस्थितः । मध्ये । अर्णसः । यम् । तौग्र्यः । नाधितः । परिअषस्वजत् । पर्णा । मृगस्य । पतरोःइव । आरभे । उत् । अश्विना । ऊहथुः । श्रोमताय । कम् ॥kaḥ | svit | vṛkṣaḥ | niḥ-sthitaḥ | madhye | arṇasaḥ | yam | taugryaḥ | nādhitaḥ | pari-aṣasvajat | parṇā | mṛgasya | pataroḥ-iva | ārabhe | ut | aśvinā | ūhathuḥ | śromatāya | kam