Sukta 1.182
तद्वां नरा नासत्यावनु ष्याद्यद्वां मानास उचथमवोचन् । अस्मादद्य सदसः सोम्यादा विद्यामेषं वृजनं जीरदानुम् ॥
तद्वां॑ नरा नासत्या॒वनु॑ ष्या॒द्यद्वां॒ माना॑स उ॒चथ॒मवो॑चन् । अ॒स्माद॒द्य सद॑सः सो॒म्यादा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
tád vāṃ narā nāsatyā́v anu ṣyā́d yád vāṃ mā́nāsa ucátham ávocan | asmā́d adyá sádasaḥ somyā́d ā́ vidyā́meṣaṃ vṛ́janaṃ jīrádānum ||
May that come true for you, O men, O Nāsatyas—what the wise have spoken of your twofold help. From this soma-seat today may we attain the sought-for nourishment and the victorious overcoming, with gifts that endure.
तत् । वा॒म् । न॒रा॒ । ना॒स॒त्यौ॒ । अनु॑ । स्या॒त् । यत् । वा॒म् । माना॑सः । उ॒चथ॑म् । अवो॑चन् । अ॒स्मात् । अ॒द्य । सद॑सः । सो॒म्यात् । आ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥तत् । वाम् । नरा । नासत्यौ । अनु । स्यात् । यत् । वाम् । मानासः । उचथम् । अवोचन् । अस्मात् । अद्य । सदसः । सोम्यात् । आ । विद्याम । इषम् । वृजनम् । जीरदानुम् ॥tat | vām | narā | nāsatyau | anu | syāt | yat | vām | mānāsaḥ | ucatham | avocan | asmāt | adya | sadasaḥ | somyāt | ā | vidyāma | iṣam | vṛjanam | jīra-dānum