Sukta 1.182
अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि प्रविद्धम् । चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति ॥
अव॑विद्धं तौ॒ग्र्यम॒प्स्व१॒॑न्तर॑नारम्भ॒णे तम॑सि॒ प्रवि॑द्धम् । चत॑स्रो॒ नावो॒ जठ॑लस्य॒ जुष्टा॒ उद॒श्विभ्या॑मिषि॒ताः पा॑रयन्ति ॥
ávaviddhaṃ taugryám apsv àntar anārambhaṇé támási práviddham | cátasro nā́vo jáṭhalasya júṣṭā úd aśvibhyām iṣitā́ḥ pāráyanti ||
The Taugrya, cast down within the waters, plunged into a darkness with no foothold—four boats, dear to Jathala, driven forth by the Ashvins’ impulse, carry him across.
अव॑ऽविद्धम् । तौ॒ग्र्यम् । अ॒प्ऽसु । अ॒न्तः । अ॒ना॒र॒म्भ॒णे । तम॑सि । प्रऽवि॑द्धम् । चत॑स्रः । नावः॑ । जठ॑लस्य । जुष्टाः॑ । उत् । अ॒श्विऽभ्या॑म् । इ॒षि॒ताः । पा॒र॒य॒न्ति॒ ॥अवविद्धम् । तौग्र्यम् । अप्सु । अन्तः । अनारम्भणे । तमसि । प्रविद्धम् । चतस्रः । नावः । जठलस्य । जुष्टाः । उत् । अश्विभ्याम् । इषिताः । पारयन्ति ॥ava-viddham | taugryam | ap-su | antaḥ | anārambhaṇe | tamasi | pra-viddham | catasraḥ | nāvaḥ | jaṭhalasya | juṣṭāḥ | ut | aśvi-bhyām | iṣitāḥ | pārayanti