Sukta 1.182
युवमेतं चक्रथुः सिन्धुषु प्लवमात्मन्वन्तं पक्षिणं तौग्र्याय कम् । येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः ॥
यु॒वमे॒तं च॑क्रथु॒: सिन्धु॑षु प्ल॒वमा॑त्म॒न्वन्तं॑ प॒क्षिणं॑ तौ॒ग्र्याय॒ कम् । येन॑ देव॒त्रा मन॑सा निरू॒हथु॑: सुपप्त॒नी पे॑तथु॒: क्षोद॑सो म॒हः ॥
yuvám etáṃ cakrathuḥ síndhuṣu plavám ātmanvántam pakṣíṇaṃ taugryā́ya kám | yéna devatrā́ mánasā nirūháthuḥ supaptanī́ petathuḥ kṣódaso maháḥ ||
You two fashioned for Tugrya’s son a self-sustained ‘floater’ in the rivers, a winged bearer; by it, with a mind turned godward, you lifted him out—well-winged, you made him cross beyond the great surging pressure.
यु॒वम् । ए॒तम् । च॒क्र॒तुः॒ । सिन्धु॑षु । प्ल॒वम् । आ॒त्म॒न्ऽवन्त॑म् । प॒क्षिण॑म् । तौ॒ग्र्याय॑ । कम् । येन॑ । दे॒व॒ऽत्रा । मन॑सा । निःऽऊ॒हथुः॑ । सु॒ऽप॒प्त॒नि । पे॒त॒थुः॒ । क्षोद॑सः । म॒हः ॥युवम् । एतम् । चक्रतुः । सिन्धुषु । प्लवम् । आत्मन्वन्तम् । पक्षिणम् । तौग्र्याय । कम् । येन । देवत्रा । मनसा । निःऊहथुः । सुपप्तनि । पेतथुः । क्षोदसः । महः ॥yuvam | etam | cakratuḥ | sindhuṣu | plavam | ātman-vantam | pakṣiṇam | taugryāya | kam | yena | deva-trā | manasā | niḥ-ūhathuḥ | su-paptani | petathuḥ | kṣodasaḥ | mahaḥ