Sukta 1.182
जम्भयतमभितो रायतः शुनो हतं मृधो विदथुस्तान्यश्विना । वाचंवाचं जरितू रत्निनीं कृतमुभा शंसं नासत्यावतं मम ॥
ज॒म्भय॑तम॒भितो॒ राय॑त॒: शुनो॑ ह॒तं मृधो॑ वि॒दथु॒स्तान्य॑श्विना । वाचं॑वाचं जरि॒तू र॒त्निनीं॑ कृतमु॒भा शंसं॑ नासत्यावतं॒ मम॑ ॥
jambháyatam abhíto rā́yataḥ śúno hatáṃ mṛ́dho vidáthus tā́ny aśvinā | vā́caṃ-vācaṃ jaritū́ ratnínīṃ kṛtam ubhā́ śáṃsaṃ nāsatyāvatam máma ||
O Ashvins, press back and crush on every side the hostile powers that rush upon us; strike down the dog of contention—these are your known deeds. Make each utterance of the singer a bearer of the treasure; O Nāsatyas, foster both the praise and the right affirmation that are mine.
ज॒म्भय॑तम् । अ॒भितः॑ । राय॑तः । शुनः॑ । ह॒तम् । मृधः॑ । वि॒दथुः॑ । तानि॑ । अ॒श्वि॒ना॒ । वाच॑म्ऽवाचम् । ज॒रि॒तुः । र॒त्निनी॑म् । कृ॒त॒म् । उ॒भा । संस॑म् । ना॒स॒त्या॒ । अ॒व॒त॒म् । मम॑ ॥जम्भयतम् । अभितः । रायतः । शुनः । हतम् । मृधः । विदथुः । तानि । अश्विना । वाचम्वाचम् । जरितुः । रत्निनीम् । कृतम् । उभा । संसम् । नासत्या । अवतम् । मम ॥jambhayatam | abhitaḥ | rāyataḥ | śunaḥ | hatam | mṛdhaḥ | vidathuḥ | tāni | aśvinā | vācam-vācam | jarituḥ | ratninīm | kṛtam | ubhā | saṃsam | nāsatyā | avatam | mama