Sukta 1.182
किमत्र दस्रा कृणुथः किमासाथे जनो यः कश्चिदहविर्महीयते । अति क्रमिष्टं जुरतं पणेरसुं ज्योतिर्विप्राय कृणुतं वचस्यवे ॥
किमत्र॑ दस्रा कृणुथ॒: किमा॑साथे॒ जनो॒ यः कश्चि॒दह॑विर्मही॒यते॑ । अति॑ क्रमिष्टं जु॒रतं॑ प॒णेरसुं॒ ज्योति॒र्विप्रा॑य कृणुतं वच॒स्यवे॑ ॥
kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate | ati kramiṣṭaṃ jurataṃ paṇer asum jyotir viprāya kṛṇutaṃ vacasyave ||
What will you do here, O wonder-workers, what will you attain, when some man without offering seeks greatness? Overstep and wear down the life-breath of the trafficker in darkness; make Light for the seer, for the one who would speak the true word.
किम् । अत्र॑ । द॒स्रा॒ । कृ॒णु॒थः॒ । किम् । आ॒सा॒थे॒ । जनः॑ । यः । कः । चि॒त् । अह॑विः । म॒ही॒यते॑ । अति॑ । क्र॒मि॒ष्ट॒म् । जु॒रत॑म् । प॒णेः । असु॑म् । ज्योतिः॑ । विप्रा॑य । कृ॒णु॒त॒म् । व॒च॒स्यवे॑ ॥किम् । अत्र । दस्रा । कृणुथः । किम् । आसाथे । जनः । यः । कः । चित् । अहविः । महीयते । अति । क्रमिष्टम् । जुरतम् । पणेः । असुम् । ज्योतिः । विप्राय । कृणुतम् । वचस्यवे ॥kim | atra | dasrā | kṛṇuthaḥ | kim | āsāthe | janaḥ | yaḥ | kaḥ | cit | ahaviḥ | mahīyate | ati | kramiṣṭam | juratam | paṇeḥ | asum | jyotiḥ | viprāya | kṛṇutam | vacasyave