Sukta 1.180
प्र यद्वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता । धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम ॥
प्र यद्वहे॑थे महि॒ना रथ॑स्य॒ प्र स्य॑न्द्रा याथो॒ मनु॑षो॒ न होता॑ । ध॒त्तं सू॒रिभ्य॑ उ॒त वा॒ स्वश्व्यं॒ नास॑त्या रयि॒षाच॑: स्याम ॥
prá yád váhethe mahinā́ ráthasya prá syandrā́ yātho mánuṣo ná hótā | dhattáṃ sūríbhya utá vā sváśvyaṃ nā́satyā rayi-sā́caḥ syāma ||
When you drive forth by the greatness of your chariot and travel swiftly like the human priest, then place for the illumined leaders—and for us—the right horse-power of energy. O Nāsatyas, may we be those who cleave to spiritual plenitude.
प्र । यत् । वहे॑थे॒ इति॑ । म॒हि॒ना । रथ॑स्य । प्र । स्य॒न्द्रा॒ । या॒थः॒ । मनु॑षः । न । होता॑ । ध॒त्तम् । सू॒रिऽभ्यः॑ । उ॒त । वा॒ । सु॒ऽअश्व्य॑म् । नास॑त्या । र॒यि॒ऽसाचः॑ । स्या॒म॒ ॥प्र । यत् । वहेथे इति । महिना । रथस्य । प्र । स्यन्द्रा । याथः । मनुषः । न । होता । धत्तम् । सूरिभ्यः । उत । वा । सुअश्व्यम् । नासत्या । रयिसाचः । स्याम ॥pra | yat | vahetheiti | mahinā | rathasya | pra | syandrā | yāthaḥ | manuṣaḥ | na | hotā | dhattam | sūri-bhyaḥ | uta | vā | su-aśvyam | nāsatyā | rayi-sācaḥ | syāma