Sukta 1.180
युवां चिद्धि ष्माश्विनावनु द्यून्विरुद्रस्य प्रस्रवणस्य सातौ । अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत्सहस्रैः ॥
यु॒वां चि॒द्धि ष्मा॑श्विना॒वनु॒ द्यून्विरु॑द्रस्य प्र॒स्रव॑णस्य सा॒तौ । अ॒गस्त्यो॑ न॒रां नृषु॒ प्रश॑स्त॒: कारा॑धुनीव चितयत्स॒हस्रै॑: ॥
yuvā́ṃ cíd dhí ṣmā aśvinā́v ánu dyū́n ví-rudrasya pra-srávaṇasya sātáu | agástyo narā́ṃ nṛ́ṣu práśastaḥ kārādhunī́va citayat sahásraiḥ ||
You two, O Ashvins, are followed through the days in the winning of the strong-flowing stream. Like Agastya, praised among men, one awakens the inner hearing and discernment, as a sounding channel stirs with a thousand currents.
यु॒वाम् । चि॒त् । हि । स्म॒ । अ॒श्वि॒नौ॒ । अनु॑ । द्यून् । विऽरु॑द्रस्य । प्र॒ऽस्रव॑णस्य । सा॒तौ । अ॒गस्त्यः॑ । न॒राम् । नृषु॑ । प्रऽश॑स्तः । कारा॑धुनीऽइव । चि॒त॒य॒त् । स॒हस्रैः॑ ॥युवाम् । चित् । हि । स्म । अश्विनौ । अनु । द्यून् । विरुद्रस्य । प्रस्रवणस्य । सातौ । अगस्त्यः । नराम् । नृषु । प्रशस्तः । काराधुनीइव । चितयत् । सहस्रैः ॥yuvām | cit | hi | sma | aśvinau | anu | dyūn | vi-rudrasya | pra-sravaṇasya | sātau | agastyaḥ | narām | nṛṣu | pra-śastaḥ | kārādhunī-iva | citayat | sahasraiḥ