Sukta 1.180
तं वां रथं वयमद्या हुवेम स्तोमैरश्विना सुविताय नव्यम् । अरिष्टनेमिं परि द्यामियानं विद्यामेषं वृजनं जीरदानुम् ॥
तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम॒ स्तोमै॑रश्विना सुवि॒ताय॒ नव्य॑म् । अरि॑ष्टनेमिं॒ परि॒ द्यामि॑या॒नं वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
táṃ vāṃ ráthaṃ vayám adyá huvema stómair aśvinā suvitā́ya návyam | áriṣṭanemiṃ pári dyā́m iyānáṃ vidyā́meṣáṃ vṛ́janaṃ jīrá-dānum ||
That chariot of yours we call today with hymns, O Ashvins, for a new and widening good passage. With unbroken wheels, moving around heaven, may we find the impulsion and the victorious opening, and the swift-giving flow of your grace.
तम् । वा॒म् । रथ॑म् । व॒यम् । अ॒द्य । हु॒वे॒म॒ । स्तोमैः॑ । अ॒श्वि॒ना॒ । सु॒वि॒ताय॑ । नव्य॑म् । अरि॑ष्टऽनेमिम् । परि॑ । द्याम् । इ॒या॒नम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥तम् । वाम् । रथम् । वयम् । अद्य । हुवेम । स्तोमैः । अश्विना । सुविताय । नव्यम् । अरिष्टनेमिम् । परि । द्याम् । इयानम् । विद्याम । इषम् । वृजनम् । जीरदानुम् ॥tam | vām | ratham | vayam | adya | huvema | stomaiḥ | aśvinā | suvitāya | navyam | ariṣṭa-nemim | pari | dyām | iyānam | vidyāma | iṣam | vṛjanam | jīra-dānum