Sukta 1.180
वयं चिद्धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान् । अधा चिद्धि ष्माश्विनावनिन्द्या पाथो हि ष्मा वृषणावन्तिदेवम् ॥
व॒यं चि॒द्धि वां॑ जरि॒तार॑: स॒त्या वि॑प॒न्याम॑हे॒ वि प॒णिर्हि॒तावा॑न् । अधा॑ चि॒द्धि ष्मा॑श्विनावनिन्द्या पा॒थो हि ष्मा॑ वृषणा॒वन्ति॑देवम् ॥
vayáṃ cíd dhí vāṃ jaritā́raḥ satyā́ vipanyā́mahe ví paṇír hitā́vān | ádhā cíd dhí ṣmā aśvināv anindyā pā́tho hí ṣmā vṛṣaṇāv ánti-devam ||
We too are your true praisers; we seek to express you in inspired speech, even though the trafficker of gain would hide the treasure. Yet indeed, O faultless Ashvins, you are the path; for you two, mighty ones, lead toward the divine near-ness.
व॒यम् । चि॒त् । हि । वा॒म् । ज॒रि॒तारः॑ । स॒त्याः । वि॒प॒न्याम॑हे । वि । प॒णिः । हि॒तऽवा॑न् । अध॑ । चि॒त् । हि । स्म॒ । अ॒श्वि॒नौ॒ । अ॒नि॒न्द्या॒ । पा॒थः । हि । स्म॒ । वृ॒ष॒णौ॒ । अन्ति॑ऽदेवम् ॥वयम् । चित् । हि । वाम् । जरितारः । सत्याः । विपन्यामहे । वि । पणिः । हितवान् । अध । चित् । हि । स्म । अश्विनौ । अनिन्द्या । पाथः । हि । स्म । वृषणौ । अन्तिदेवम् ॥vayam | cit | hi | vām | jaritāraḥ | satyāḥ | vipanyāmahe | vi | paṇiḥ | hita-vān | adha | cit | hi | sma | aśvinau | anindyā | pāthaḥ | hi | sma | vṛṣaṇau | anti-devam