Sukta 1.180
नि यद्युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरंधिम् । प्रेषद्वेषद्वातो न सूरिरा महे ददे सुव्रतो न वाजम् ॥
नि यद्यु॒वेथे॑ नि॒युत॑: सुदानू॒ उप॑ स्व॒धाभि॑: सृजथ॒: पुरं॑धिम् । प्रेष॒द्वेष॒द्वातो॒ न सू॒रिरा म॒हे द॑दे सुव्र॒तो न वाज॑म् ॥
ní yád yuvéthe níyutaḥ sudānū́ úpa svadhā́bhiḥ sṛ́jathaḥ púraṃdhim | préṣad véṣad vā́to ná sūrír ā́ mahé dade suvrató ná vā́jam ||
When you two yoke yourselves with your teams, O givers of good gifts, you release the fullness of abundance by your own innate powers. Like the wind that drives and urges, the illumined giver bestows for the great aim, establishing the plenitude of force by a right law of action.
नि । यत् । यु॒वेथे॒ इति॑ । नि॒ऽयुतः॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । उप॑ । स्व॒धाभिः॑ । सृ॒ज॒थः॒ । पुर॑म्ऽधिम् । प्रेष॑त् । वेष॑त् । वातः॑ । न । सू॒रिः । आ । म॒हे । द॒दे॒ । सु॒ऽव्र॒तः । न । वाज॑म् ॥नि । यत् । युवेथे इति । नियुतः । सुदानू इति सुदानू । उप । स्वधाभिः । सृजथः । पुरम्धिम् । प्रेषत् । वेषत् । वातः । न । सूरिः । आ । महे । ददे । सुव्रतः । न । वाजम् ॥ni | yat | yuvetheiti | ni-yutaḥ | sudānūitisu-dānū | upa | svadhābhiḥ | sṛjathaḥ | puram-dhim | preṣat | veṣat | vātaḥ | na | sūriḥ | ā | mahe | dade | su-vrataḥ | na | vājam