Sukta 1.180
आ वां दानाय ववृतीय दस्रा गोरोहेण तौग्र्यो न जिव्रिः । अपः क्षोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा ॥
आ वां॑ दा॒नाय॑ ववृतीय दस्रा॒ गोरोहे॑ण तौ॒ग्र्यो न जिव्रि॑: । अ॒पः क्षो॒णी स॑चते॒ माहि॑ना वां जू॒र्णो वा॒मक्षु॒रंह॑सो यजत्रा ॥
ā́ vāṃ dānā́ya vavṛtīya dasrā gór óhena taugryó ná jivríḥ | apáḥ kṣoṇī́ sacate mā́hinā vāṃ jūrṇó vāṃ ákṣur áṃhaso yajatrā ||
Toward your giving I turn, O wondrous ones, drawn by the uplifting of the Light, like a swift Taugrya. The waters and the wide earth join with your greatness; by you the pressing force is sharpened against distress, O worthy of sacrifice.
आ । वा॒म् । दा॒नाय॑ । व॒वृ॒ती॒य॒ । द॒स्रा॒ । गोः । ओहे॑न । तौ॒ग्र्यः । न । जिव्रिः॑ । अ॒पः । क्षो॒णी इति॑ । स॒च॒ते॒ । माहि॑ना । वा॒म् । जू॒र्णः । वा॒म् । अक्षुः॑ । अंह॑सः । य॒ज॒त्रा॒ ॥आ । वाम् । दानाय । ववृतीय । दस्रा । गोः । ओहेन । तौग्र्यः । न । जिव्रिः । अपः । क्षोणी इति । सचते । माहिना । वाम् । जूर्णः । वाम् । अक्षुः । अंहसः । यजत्रा ॥ā | vām | dānāya | vavṛtīya | dasrā | goḥ | ohena | taugryaḥ | na | jivriḥ | apaḥ | kṣoṇī iti | sacate | māhinā | vām | jūrṇaḥ | vām | akṣuḥ | aṃhasaḥ | yajatrā