Sukta 1.180
युवं ह घर्मं मधुमन्तमत्रयेऽपो न क्षोदोऽवृणीतमेषे । तद्वां नरावश्विना पश्वइष्टी रथ्येव चक्रा प्रति यन्ति मध्वः ॥
यु॒वं ह॑ घ॒र्मं मधु॑मन्त॒मत्र॑ये॒ऽपो न क्षोदो॑ऽवृणीतमे॒षे । तद्वां॑ नरावश्विना॒ पश्व॑इष्टी॒ रथ्ये॑व च॒क्रा प्रति॑ यन्ति॒ मध्व॑: ॥
yuváṃ há gharmáṃ mádhumantam átraye ’pó ná kṣódo ’vṛṇītam eṣé | tád vāṃ narāv aśvinā páśva-iṣṭī rathyéva cakrā́ práti yanti mádhvaḥ ||
You two indeed chose for Atri the honeyed Gharma, as waters choose their flowing surge. Therefore, O men, O Ashvins, the offerings that seek increase come back to you with sweetness, like wheels returning along the chariot-path.
यु॒वम् । ह॒ । घ॒र्मम् । मधु॑ऽमन्तम् । अत्र॑ये । अ॒पः । न । क्षोदः॑ । अ॒वृ॒णी॒त॒म् । ए॒षे । तत् । वा॒म् । न॒रौ॒ । अ॒श्वि॒ना॒ । पश्वः॑ऽइष्टिः । रथ्या॑ऽइव । च॒क्रा । प्रति॑ । य॒न्ति॒ । मध्वः॑ ॥युवम् । ह । घर्मम् । मधुमन्तम् । अत्रये । अपः । न । क्षोदः । अवृणीतम् । एषे । तत् । वाम् । नरौ । अश्विना । पश्वःइष्टिः । रथ्याइव । चक्रा । प्रति । यन्ति । मध्वः ॥yuvam | ha | gharmam | madhu-mantam | atraye | apaḥ | na | kṣodaḥ | avṛṇītam | eṣe | tat | vām | narau | aśvinā | paśvaḥ-iṣṭiḥ | rathyāiva | cakrā | prati | yanti | madhvaḥ